|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.119. अध्यायः 119
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मनिपातः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-119-0x(4239)(44345)
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ 6-119-1(44346)
शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥ 6-119-2(44347)
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥ 6-119-3(44348)
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥ 6-119-4(44349)
न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥ 6-119-5(44350)
नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥ 6-119-6(44351)
युगान्तागनिसमप्रख्यः परेषां समपद्यत ।
निवृत्य रथसङ्घानामन्तरेण विनिःसृतः॥ 6-119-7(44352)
दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥ 6-119-8(44353)
पाण्डवानीकिनीमध्यमाससाद विशांपते।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥ 6-119-9(44354)
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥ 6-119-10(44355)
षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः ।
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥ 6-119-11(44356)
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥ 6-119-12(44357)
न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥ 6-119-13(44358)
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्।
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥ 6-119-14(44359)
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥ 6-119-15(44360)
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥ 6-119-16(44361)
अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥ 6-119-17(44362)
उद्धूतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥ 6-119-18(44363)
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥ 6-119-19(44364)
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-119-20(44365)
विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥ 6-119-21(44366)
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ 6-119-22(44367)
संग्रमे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥ 6-119-23(44368)
अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ 6-119-24(44369)
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥ 6-119-25(44370)
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः ॥ 6-119-26(44371)
स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥ 6-119-27(44372)
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ।
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ॥ 6-119-28(44373)
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥ 6-119-29(44374)
संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ॥ 6-119-30(44375)
मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ।
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः । 6-119-31(44376)
अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥ 6-119-32(44377)
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ।
`अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।'
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥ 6-119-33(44378)
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥ 6-119-34(44379)
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ 6-119-35(44380)
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ 6-119-36(44381)
यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥ 6-119-37(44382)
अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ 6-119-38(44383)
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥ 6-119-39(44384)
न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ 6-119-40(44385)
संभ्रमश्च महानासीत्रिदशानां विशांपते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ 6-119-41(44386)
इति देवगणानां च वाक्यं श्रुत्वा महातपाः।
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ 6-119-42(44387)
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ॥ 6-119-43(44388)
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥ 6-119-44(44389)
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥ 6-119-45(44390)
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥ 6-119-46(44391)
सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥ 6-119-47(44392)
तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥ 6-119-48(44393)
निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥ 6-119-49(44394)
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः ।
ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ॥ 6-119-50(44395)
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ 6-119-51(44396)
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥ 6-119-52(44397)
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥ 6-119-53(44398)
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥ 6-119-54(44399)
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ 6-119-55(44400)
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥ 6-119-56(44401)
न चैष समरे शक्यो जेतुं वज्रभृता अपि।
न चापि सहिता वीरा देवदानवराक्षसाः ॥ 6-119-57(44402)
मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः । 6-119-58b`ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते ॥' 6-119-58(44403)
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः।
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ 6-119-59(44404)
ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् ।
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ 6-119-60(44405)
वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः ।
सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥ 6-119-61(44406)
निकृन्तमाना मर्माणि दृढावरणभेदिनः ।
सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥ 6-119-62(44407)
वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ।
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ 6-119-63(44408)
नाशयन्तीव मे प्राणान्यमदूता इवागताः ।
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ 6-119-64(44409)
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः।
समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ 6-119-65(44410)
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥ 6-119-66(44411)
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक ।
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ 6-119-67(44412)
इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् ।
शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥ 6-119-68(44413)
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ 6-119-69(44414)
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥ 6-119-70(44415)
तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 6-119-71(44416)
ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत्।
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥ 6-119-72(44417)
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः।
पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥ 6-119-73(44418)
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।
सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥ 6-119-74(44419)
तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः।
तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥ 6-119-75(44420)
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ 6-119-76(44421)
आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव ।
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ 6-119-77(44422)
असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा।
समं च विषमं चैव न प्राज्ञायत किंचन ॥ 6-119-78(44423)
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ 6-119-79(44424)
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः।
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ 6-119-80(44425)
`तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्।
द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥' 6-119-81(44426)
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्।
पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥ 6-119-82(44427)
`पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना।
धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥ 6-119-83(44428)
भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः।
द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः।
तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥' 6-119-84(44429)
सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 6-119-85(44430)
साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह।
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः।
संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥ 6-119-86(44431)
ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥ 6-119-87(44432)
निपातयत गृह्णीत युध्यध्वमवकृन्तत।
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ 6-119-88(44433)
निहत्य समरे राजञ्शतशोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥ 6-119-89(44434)
एवंभूतस्तव पिता शरैर्विशकलीकृतः।
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥ 6-119-90(44435)
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ॥ 6-119-91(44436)
पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥ 6-119-92(44437)
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ॥ 6-119-93(44438)
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥ 6-119-94(44439)
शलतल्पे महेष्वासं शयानं पुरुषर्षभम्।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ 6-119-95(44440)
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥ 6-119-96(44441)
संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥ 6-119-97(44442)
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ 6-119-98(44443)
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्।
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥ 6-119-99(44444)
उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया।
तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥ 6-119-100(44445)
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै।
ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥ 6-119-101(44446)
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ 6-119-102(44447)
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥ 6-119-103(44448)
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ 6-119-104(44449)
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥ 6-119-105(44450)
इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्।
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ 6-119-106(44451)
तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥ 6-119-107(44452)
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ 6-119-108(44453)
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥ 6-119-109(44454)
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥ 6-119-110(44455)
छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥ 6-119-111(44456)
इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥ 6-119-112(44457)
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्वे भरतानां पितामहे ॥ 6-119-113(44458)
न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
संमोहश्चैव तुमुलः करूणामभवत्तदा ॥ 6-119-114(44459)
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ 6-119-115(44460)
दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ 6-119-116(44461)
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि।
`दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।'
अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥ 6-119-117(44462)
हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ 6-119-118(44463)
पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥ 6-119-119(44464)
सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥ 6-119-120(44465)
आस्फोटयामास भृशं भीमसेनो ननाद च।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥ 6-119-121(44466)
संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥ 6-119-122(44467)
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्।
ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥ 6-119-123(44468)
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय विर्यवान् ॥ 6-119-124(44469)
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ॥ 6-119-125(44470)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-119-26 आत्तमात्तं गृहीतं गृहीतम् ॥ 6-119-37 व्यवसितं निश्चितम् ॥ 6-119-38 निधने समाप्तौ ॥ 6-119-40 मुनितेजसा व्यासप्रभावेन ॥ 6-119-61 अव्यवच्छिन्नाः संतताःच ॥ 6-119-66 माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा । यथा माघमां कर्कटी मातरं सेगवास्तदपत्यानि कृन्तन्ति उदरस्थान्यपत्यानि पृष्ठं विदार्य वहिर्नर्गच्छन्ति तद्वदित्यर्थः । तेन प्राणापहारिवेदनाजनकत्वं बामानां नेदं शिखण्डिबाणेषु संभवति । तेषां मदङ्गे पुष्पतुल्यत्वात्॥ 6-119-70 अग्रे तेषाम्। मृत्योरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे इत्यर्थः ॥ 6-119-86 प्राणपीडिता इति कo घo पाठः ॥ 6-119-97 कालं मृत्युम् ॥ 6-119-104 दक्षिणेन दक्षिणमार्गस्थं भास्करं च दृष्ट्वेत्यन्वयः ॥ 6-119-105 संस्थाता मरिष्यति ॥ 6-119-109 ऐश्वर्यं स्वसामर्थ्यं स्वच्छन्दमृत्युत्वात् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|